758 सुखाभावः

मूलम्

अथ मोक्षपदार्थस्य तत्त्वं संगृह्यतेऽधुना।यदर्थं सकलं शास्त्रं जगत्या संप्रवर्तते॥

मूलम्

दुःखभावस्सुखमिति व्यवहारस्य गोचरः।किंचित्सुखं नाम वस्तु नास्तीत्येव हि सौगताः॥

मूलम्

न सुखादिप्रमेयं वा मनो वाऽस्तीन्द्रयान्तरम्।अनिषेधादुपात्तं चेत् अन्येन्द्रियमतं वृथा॥

टीका

न्या. ता.[97]

मूलम्

दुःखाभावस्सुखमिति जरत्तार्किकस्सम्मतः।इत्यानन्दगिरिः प्राह स्पष्टं संबन्धवार्तिके॥