मूलम्
अथ कामरहस्यं तु किंचिदत्र प्रकाश्यते।रागो द्वेषो मोह एते यान्तिचेदुत्कटां स्थितिम्॥
मूलम्
कामः क्रोधो लोभ इति व्यह्रियन्ते क्रमादमी।कामस्येच्छासंज्ञकस्यावस्थाभेदा इमे मताः॥
मूलम्
देवासुरमनुष्याणां रूपमेतद्विभाजकम्।त्रिविधं नरकस्यैतद्द्वारं नाशनमात्मनः॥
मूलम्
कामः क्रोधस्तथा लोभः तस्मादेत्त्रयं त्यजेत्।इत्येवं गीताया सैषा श्रुतिस्स्यादुपबृंहिता॥
टीका
भ. गी.[16-21]
मूलम्
बृहदारम्यकान्तस्स्था प्राजापत्यास्त्रया इति।असुरांश्च मनुष्य़ांश्च देवांश्चापि प्रजापतिः॥
टीका
बृ. उ.[7-2]
मूलम्
उपादिशद्धि ददद-दयध्वं दत्त दाम्यत।श्रुतिस्मृत्योरयं भावः तस्मिन् सर्वं प्रतिष्ठितम्॥