756 बाधादिपक्षाः

मूलम्

चातुराश्रम्यसिद्धान्ते त्वैकाश्रम्यं समाश्रिताः।जैमिनीयास्ततस्सोऽयं बाधपक्ष इतीर्यते॥

टीका

गौ. ध.[3-36]

मूलम्

अधिकारानुरोधेन बादारायणयोगिनः।विकल्पमिच्छया प्राहुः पक्षो वैकल्पिकस्तु सः॥

टीका

ब्र. सू.[3-4-18]

मूलम्

समुच्चयं ह्याश्रमाणां मन्वाद्यास्स्मृतिकारिणः।प्राहुस्समुच्चयतेषां पक्ष इत्यवधार्यते॥

मूलम्

तद्वद्धर्मार्थकामादिपुरुषार्थचतुष्टये।अर्थो लौकायतः प्रोक्तः कामश्शाक्तस्त्वनन्तरः॥

मूलम्

जरन्मीमांसकाभीष्टः मोक्षस्सौगतसम्मतः।अधिकारानुरोधेन विकल्पं केचिदूचिरेय॥

मूलम्

समुच्चयस्स्वीकृतोऽस्ति स्पष्टं स्मृतिपुराणयोः।परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ॥

टीका

मनु.[4-176]

मूलम्

धर्मं चाप्यसुखोदर्कं लोकविक्रुष्टमेवच।असाधभ्योऽर्थमादाय साधुभ्यस्संप्रयच्छति॥

टीका

प. म.[6 भ.]

मूलम्

धर्माविरुद्धो भूतेषु कामोऽस्मि बरतर्षभ।इति मन्वादिवचनात्मकलितावर्थकामयोः॥

मूलम्

आद्यन्तयोः धर्ममोक्षाविति शास्त्ररहःस्थिति।अर्थशास्त्रे स्तेयशास्त्रे चार्थतत्त्वं प्रपञ्चितम्॥