मूलम्
पुमवस्थाक्रमेणैव पुरुषार्थक्रमोऽप्यसौ।निर्देशव्युत्क्रमे चापि हेतुरग्रेऽवगम्यते॥
मूलम्
उत्पत्तितस्त्वन्द्रियार्थसन्निकर्षनिबन्धनम्।यत्तदर्थसुखं ज्ञेयमथ कामो निरुच्यते॥
मूलम्
वयोऽवस्थाविशेषेण सहवासादिनाऽपिवा।पुंस्त्वाद्यभिव्यक्तिभवं अवस्थैकनिबन्धनम्॥
मूलम्
तथा विद्यासंस्कृतेन मनसा धर्मलक्षणम्।सुखं ह्यनुबुभूषन्ति नियोगसुकवादिनः॥
टीका
वे.सं.[199]
मूलम्
फलान्तराहेतुरपि स्वरूपे कार्यबुद्धितः।स्वयंप्रयोजनं नित्यमित्यप्यत्रेतरे विदुः॥
मूलम्
प्रत्यवायपरीहारबुद्ध्या कर्तव्यमेव तत्।इत्याहुपरे प्राज्ञाः स धर्मस्सुखमर्थ्यते॥
टीका
भ. गी.[17.11]
मूलम्
अतएवबि यज्ञस्य त्रैविध्यपरिशोधने।अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो च इज्यते॥
मूलम्
यष्टव्यमेवेति मनस्समाधाय स सात्त्विकः।इत्यस्य पुरुषार्थत्वं गीतं भगवता स्वयम्॥
मूलम्
ख्यातेर्लाभस्य पूजायाः मानसी सुखता यथा।तथा धर्मस्य सुखता शास्त्रदृष्टिभिरीक्ष्यते॥
मूलम्
मोक्षस्य पुरुषार्थत्वे विक्रान्तं सर्वसूरिभिः।तत्सर्वमुत्तरत्रैव सम्यक्स्पष्टीभविष्यति॥
मूलम्
एवं चतु्विधसुखावस्थाप्राधान्यलिप्सया।चातुराश्रम्यसंस्थाऽपि प्रायेणात्रानुरुध्यते॥
मूलम्
मोक्षाश्रमस्स्यात्संन्यासः धर्मो वैखानसाश्रमः। कामो गृहस्थाश्रमस्स्यात् अर्थार्थी ब्रह्मचर्यसौ।
मूलम्
एतद्दृष्ट्यैव वर्णानां विभागोऽपि समञ्जसः।ब्रह्मणस्त्विह संन्यासी ऋषिः क्षत्रिय उच्यते॥
मूलम्
गृहस्थोऽपि भवेद्वैश्यः शूद्रश्शुश्रूषुरुच्यते।तथा कालाविभागोऽपि कृतं ब्राह्मण्यलक्षणम्॥
मूलम्
क्षात्रं त्रेता समाख्याता द्वापरः वैश्यता मता।शूद्रः कलिरितिप्रोक्तः स्फष्टं रामायणोत्तरे॥
टीका
रामा.[7-74]
मूलम्
अपराजितपृच्छाया वचश्चाप्यवधार्यताम्।ऋग्वेदादिविभागेन कृतादियुगभेदतः॥
मूलम्
विप्रादिवर्णभेदेऩ चतुर्वक्त्रः चतुर्भुजः।हेमाद्रीये कालखाण्डे परिशिष्टे ह्युदाहृतम्॥
टीका
हेमा.[661]
मूलम्
चतुर्णामपि चैतेषां परस्परसमागमः।विशिष्टनानुकूल्येन प्रपञ्चस्थितये मतः॥