754 पुरुषार्थविभागः

मूलम्

धर्मश्चार्थश्च कामश्च मोक्षश्चेति चतुर्विधः।पुरुषार्थो विभक्तोऽस्ति यथा स्मृत्पिराणयोः॥

टीका

विष्णु.[1-18]

मूलम्

धर्मे चार्थे च कामे च मोभे च भरतर्षभ।यदत्रास्ति तदन्यत्र यन्नेहास्ति न तत्क्कचित्॥

मूलम्

अत्राद्येऽर्धे चतुर्भिश्चैरधर्माद्यास्समुच्चिताः।मिथस्समुच्चयश्चेति व्याख्यातं तन्त्रवार्तिके॥

टीका

तन्त्र.[16]

मूलम्

अर्थं प्रोवाच चाणक्यः कामं वात्स्यायनोब्रवीत्।धर्मं तु जैमिनिः प्राह मोक्षं वै बादरायणः॥

मूलम्

एतेऽधुना तीर्थकराः पुमर्थानामिति श्रुताः।समुच्चयविदस्सर्वेऽप्यधिकारिभेदतः॥

मूलम्

पुरुषैरर्थ्यमानन्वात्पुरुषार्थ इतीर्यते।स तु स्यात्सुखमेवात्र तच्चतुर्धा विभज्यते॥

मूलम्

शारीरं मानसं चेति द्विधा तत्सुखमिष्यते।अर्थकामौ तु शारीरं धर्ममोक्षौ तु मानसम्॥