मूलम्
प्रयोजनविचारोऽथ तृतीयोऽयं विलिख्यते।व्यापारस्य हि सर्वस्य विश्रमोऽस्ति प्रयोजने॥
मूलम्
धर्मार्थावुच्यते श्रेयः कामार्थौ कर्म एवच।अर्थ एवेह वा श्रेयः त्रिवर्ग इति तु स्थितिः॥
टीका
मनु.[2-224]
मूलम्
इति प्राह मनुस्तस्य वचनस्यायमाशयः।श्रेयःपदं पुमर्थस्य वाचकं सर्वसम्मतम्॥
मूलम्
अर्थ एव पुमर्थस्स्यादित्येकेषामिहादयः।अर्थ एवहि धर्मस्य काम्स्यातीह साधनम्॥
मूलम्
काम एव पुमर्थस्स्यादिति केषांचिदाशयः।धर्म एव श्रेय इति रौति वै बादरायणः॥
टीका
भारत.[18-6]
मूलम्
ऊर्ध्वबाहुर्विरौम्येष नच कश्चिच्छृणोति मे।धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते॥
मूलम्
अर्थकामौ श्रेय इति चापरेषामिहाशयः।अर्थकामौ हि जगति प्रथितं सुखसाधनम्॥
मूलम्
अर्थधर्मौ श्रेय इति चाचार्या मन्वतेऽपरे।कामो हि धर्मार्थाभ्यां स्यादिति तेषामिहाशयः॥
मूलम्
परस्पराविरुद्धस्तु त्रिवर्गश्श्रेय इष्यते।पुरुषार्थतयेत्यत्र मनोः स्मर्तुः विनिर्णयः॥
मूलम्
मुमुक्षूनां पुनः श्रेयः मोक्ष एवेतिचेरितम्।षष्ठाध्याये,ततः पक्षः विबुधैस्सप्त निश्चिताः॥
मूलम्
तमसो लक्षणं कामः रजसस्त्वर्थ उच्यते।सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम्॥
मूलम्
एवं पाचां विवादेऽपिचाधना ते चतुर्विधाः।पुरुषार्थाः चतुर्वर्गः इति पीठप्रकल्पना॥