मूलम्
शब्दैकलभ्यतारागादेवान्येऽन्वितवादिनः।तात्पर्येणान्यथासिद्ध्या परेऽभिहितवादिनः॥
मूलम्
वाक्यं प्रामाणान्तरं स्यात्पदसन्निधिलक्षणम्।तद्विक्षणसामर्थ्यं मतमिन्द्रयलिङ्गवत्॥
मूलम्
तथा कार्यार्थसिद्धार्थव्युत्पत्त्येकान्तभेदतः।अन्विताभिहितेत्यादिमतभेदः व्यवस्थितः॥
मूलम्
पदज्ञानं तु कारणं द्वारमर्थस्मृतिस्ततः।फलं संसर्गबोधस्स्यात् इति नैयायिका विदुः॥
मूलम्
तत्रान्वयोऽनधिगतः वाक्यवेद्यो यतस्ततः।ते त्वन्वयोभिधानस्य वादिनः परमार्थतः॥
मूलम्
निर्विशेषब्रह्मवादे ह्यान्वितस्यान्वयस्य वा।भेदगर्भत्वतः शब्दः न तादृग्ब्रह्मबोधकः॥
मूलम्
सविशेषब्रह्मवादे प्रधानार्थविरोधतः।नैकत्र निर्भरस्तस्माद्वयवहारो यथायथम्॥
टीका
न्या. म.[401]
मूलम्
अन्वीयमानवस्तूनामभिधानं परेऽब्रुवन्।अन्येऽभिधीयमानानामर्थानामान्वयं जुगुः॥
मूलम्
अत्रापि केचिन्मन्यन्ते सामान्येनान्विताभिधा।विशेषतश्चाभिहितान्वय इत्यपि कल्पनाम्॥
मूलम्
अतस्सामान्यतो ज्ञातः पदान्तरबलात्पुनः।भवेद्विशेषविज्ञातः तेन स्यादन्वितोत्तिता॥
मूलम्
इत्यप्याहुर्बुधा केचित् सर्वथाऽन्वयबोधकम्।फलं सर्वत्राविशिष्टमित्याहुश्तिन्तनालसा॥
मूलम्
मीमांसकस्य सिद्धान्तः तथा नैयायिकस्य वा।प्रदर्शितः परिष्कृत्य प्रायो वेदान्तवादिभिः॥
मूलम्
एष वाक्यार्थवादोऽत्र देवताप्रीतये कृतः।सर्वत्र देवताप्रीतिः कर्तव्येति हि निर्णयः॥
मूलम्
लक्ष्मीपुरं श्रीनिवासविपश्चिच्चक्रवर्तिना।एवं प्रमाणभागोऽयं द्वितीयस्समगृह्यत॥