751 अभिहितान्वयः

मूलम्

अथ भट्टस्याभिमतः प्रोच्यतेऽभिहितान्वयः।पदैरेवाभिधीयन्ते पदार्थाः ते पृथक्पृथक्॥

मूलम्

विशेषव्यक्त्यभावात्तत्स्मारकान्न विशिष्यते।योगयत्वेन परामृष्टा तेऽर्था अभिहिताः पुनः॥

मूलम्

विशेषसंसर्गरूपं वाक्यार्थं बोधयन्ति तम्।पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते॥

टीका

श्लो.क.[432]

मूलम्

यदाधिक्यं भवेत्किंचित् तत्पदस्य न गोचरः।न पदव्यापृतिस्तत्र चार्थैरेवार्थसिद्धतः॥

मूलम्

यथा कविभिरालोच्यमाना अर्थाः परस्परम्।अन्विता केवलं लोकोत्तकवाक्यस्य हेतवः॥

मूलम्

अत एव हि वाक्यार्थमेते लाक्षणिकं विदुः।यस्मादभिहितैरर्थैः संबन्धात्सोऽवगम्यते॥

मूलम्

नाकृतिः प्रथमं ज्ञाता व्यक्तिः पश्चात्प्रतीयते।किं तु प्रतीयते जातिः व्यक्त्य्यैव सहिता यथा॥

मूलम्

तथाऽन्वयोऽप्यधिगतस्त्वन्वितस्यावबोधकः।इत्यन्विताभिधाय्येष शब्द इत्युज्यते परैः॥

मूलम्

क्लृप्तमन्वितसामर्थ्यं पदार्थानां स्वभावतः।एकवाक्यतया तत्र कल्प्यं निययममात्रकम्॥

मूलम्

पदार्थैष्वभिधावृत्तिः पदानां पर्यवस्येति।तात्पर्यवृत्तिर्वाक्यार्थे स तस्माच्चोदनाश्रयः॥

टीका

न्या. र.[909]