750 अन्विताभिधानम्

मूलम्

अथान्विताभिधानाभिहितान्वयविवादयोः।आद्याः प्राभाकरभीष्टः ह्यन्त्यः कौमारीलादृतः॥

टीका

न्या. म.[395]

मूलम्

आदौ पदानि श्रूयन्ते ततो व्युत्पत्तिमार्गतः।परस्परानन्विता ये पदार्थाः स्मारयन्ति तान्॥

मूलम्

आकाङ्क्षादिपरामर्शः स्मृतेष्वर्थेषु जायते।न्यायप्रवृत्तिस्तत्रेव स्वात्मानं लब्धुमर्हति॥

मूलम्

वचनव्यक्तिभेदाभिव्यक्तिस्संपाद्यते तया।सम्यङ्रन्यायनुग्रहेण तैर्वार्यार्थेऽभिधीयते॥

मूलम्

नानापदार्थसहितप्रधानैकार्थलक्षणः।पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम्॥

मूलम्

न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम्।अन्वितार्थाभिधायत्वे पदानाम शिक्षिते सति॥

टीका

स. सि.[4-91]

मूलम्

विशिष्टा वक्तृधीर्ज्ञातुम शक्यते नान्यथा पुनः।एषोऽन्विताभिधानस्य प्रकारः गुरुसम्मतः॥