मूलम्
स च किं कृतिकर्मत्वं किंवा प्रेरकता मता।अनुकूसत्वमथवा शेषित्वमथवा मतम्॥
मूलम्
प्रयोजनत्वमथवा प्राधान्यमथवा कृते।अथवा सुखरूपत्वं पुरुषार्थतेवमेववा॥
मूलम्
नाद्यत्रयं कृत्यधीनसिद्धता वेष्टताऽपिवा।फलभावार्थयोरेव तदेतत्पर्यवस्यति॥
मूलम्
शेषित्वं दुर्निरूपं स्यात् पञ्चमं पूर्ववद्भवेत्।षष्ठं त्वंसंभवग्रस्तं सप्तमं लोकदूषितम्॥
मूलम्
अष्टमं निष्प्रमाणं स्यात् अपूर्वं दुर्वचं ततः।कर्तृव्यापारासाध्यत्वमात्रं धात्वर्थसंगतम्॥
मूलम्
लिङादेर्वाच्यमित्याहुरनुशासनवेदिनः।एवं वाच्यापूर्ववादो यथाऽन्येषां न संमतः॥
मूलम्
तथा कल्प्यापूर्ववादः सेश्वरैरधरीकृतः।इति श्रीभाष्यकारीया पूर्ववादार्थसंग्रहः॥