मूलम्
अत्र श्रीभाष्यकारीयापूर्वसिद्धान्तखण्डनम्।संगृह्यतेऽथ विशदबोधाय विदुषामपि॥
मूलम्
आचार्यकाधिकारार्थाऽधीतिस्स्यादिति संशये।अर्थज्ञानाधिकारार्थाऽथातो धर्मेत्यसूत्रय्यत॥
मूलम्
विधिस्स्वाध्याया इत्यादिः यावत्स्वाध्यायगोचरः।अथेत्यानन्तर्यमपि यावत्तत्प्रयोगिकम्॥
मूलम्
अत इतियर्थपरता यावद्वेदावलम्बिनी।जिज्ञास्याताऽपि कृत्स्नस्य वेदार्थस्येति गम्यते॥
मूलम्
अभिधा चोदना चेति श्रुतिरेषा द्विधा मता।आद्या सिद्धपरा ज्ञेया द्वितीया कार्यतत्परा॥
मूलम्
अव्युत्पत्त्य्यनपूर्वत्वाप्रयोजननिबन्धनम्।अप्रामाण्यं विदुस्सिद्धे विबुधा ह्यभिधाश्रुतेः॥
मूलम्
चोदनाश्रुतिरेवैषा व्युत्पत्त्यादिपरिष्कृता।प्रमाणं स्यात्ततश्चाद्या लिङ्गेऽन्तर्भावमर्हति॥
मूलम्
चोदलभमः कार्यं धर्मो वेदार्थ इत्यतः।वेदार्थः कार्यरूपस्स्यादिति व्याख्या गुरोर्मता॥
मूलम्
ततश्चोपनिषद्व्याख्याशास्त्रं नारम्भमर्हति।यस्मादुपनिषच्छन्दः सिद्धवस्त्वेकगोचरः॥
मूलम्
अत्रोच्यते ब्रह्मविद्भिः ब्रह्माप्यानन्दलक्षणन्।शास्त्रेणैवावसेयं च व्युत्पन्नं चाप्तवाक्यतः॥
मूलम्
तस्मात्साध्यपरा यद्वत्तथा सिद्धपराऽपिच।श्रुतिः प्रमाणं तेनार्धजरतीयं न युक्तिमत्॥
मूलम्
इति सिद्धान्तानुरोधात्कार्यतत्त्वमननूद्यते।प्राक्छ्रलोकैस्सप्तभिः पश्चात् सप्तभिस्तन्निरस्यते॥
मूलम्
लोके हि सिद्धवस्तूनां ये शब्दाः प्रतिपादकाः।पश्चात्तनास्ते संदृष्टाः प्रतिपाद्यात् तथा यदा॥
मूलम्
श्रुतिः सिद्धपराचेत्स्यात् प्रतिपाद्यादनन्तरा।ततश्चांपौरुषेयत्वं नित्यत्वं च न निर्वहेत्॥
मूलम्
कृतिसाध्यं प्रधानं यत्तत्कार्यमिति गीयते।प्रामाण्यमपि वेदस्य तत्र व्युत्पत्तिसंभवात्॥
मूलम्
आत्मसिद्ध्यनुकूलस्य नियोज्यस्य प्रसिद्धये।कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः॥
मूलम्
कृतिसाध्यत्वमिष्टत्वं कृत्युद्देश्यत्वमेवच।कार्यस्य त्रय आकारा इत्याहुः कार्यवादिनः॥
मूलम्
साधारणौ द्वावाकारौ भावार्थफलयोरिति।तृतीयोऽसौ नियोगस्य त्वसाधरण इष्यते॥
मूलम्
कार्यं हि तच्च प्रथममनन्यार्थं प्रतीयते।ततश्चान्यार्थता युक्ता भृत्येष्टप्रदभूपवत्॥