मूलम्
इष्टस्य कृत्यधीनात्मलाभलक्षणकार्यता।लिङर्थ इति वेदार्थसंग्रहे भाष्यकृद्वचः॥
टीका
वे. सं.[214]
मूलम्
प्रभाकरा ये विख्यातास्ते वाचयापूर्ववादिनः।कौमारिलाः पुनः कल्प्यापूर्ववागिन ईरिताः॥
मूलम्
अतिरिक्तार्थवाच्यत्वकल्पनायामपीष्यते।श्रुतैव देवताप्रीतिः नापूर्वं क्वचिदश्रुतम्॥
मूलम्
इष्टसाधनतां प्राहुर्लिङर्थं मण्डादयः।अयं त्विष्टाभ्युपायोऽतः कार्यमित्यध्यवस्यति॥
मूलम्
कार्यत्वमिष्टोपांयत्वादन्तरङ्गमितीतरे।लघीयसी साध्यताऽतः देवताप्रीत्यपेक्षया॥
मूलम्
तत्रैव शब्दश्क्ति स्यादिति श्रीभाष्यकृन्मतम्।आप्तस्य हितकामस्य नियोगोऽपि तदाद्दतः॥
टीका
अधिकरण.[20 श्लो.]
मूलम्
श्रीपूर्णप्रज्ञसिद्धान्तोऽप्येवमेव प्रतीयते।अनुव्याख्यानवाक्यं तु तदीयमवधार्यताम्॥
मूलम्
कार्यता च न काचित्स्यादिष्ठसाधनतां विना।कार्यं साधनमिष्टस्य भगवानिष्टदेवता॥
मूलम्
इति तस्माद्देवता तु येषां स्यान्निरनुग्रहा।क्लिश्नन्ति ते वै प्रायेण नान्य इत्यत्र निर्णयः॥