मूलम्
सुखं हि जगतामेव काम्यं धर्मेण जायते।अधर्मजन्यं दुःखं स्यात् प्रतिकूलं स चेतसाम्॥
मूलम्
चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत्।तद्धेतु कृतिसाध्येष्टसाधनत्वमतिर्भवेत्॥
मूलम्
वलवद्द्विष्टहेतुत्वमतिस्सयात्प्रतिबांधिका।तदहेतुत्वबुद्धेस्तु देतुत्वं कस्यचिन्मते॥
मूलम्
चिकीर्षा कृत्साध्येष्टसाधनत्वमतिस्तथा।उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत्॥
मूलम्
एवं प्रवृत्तिजननात् विधेरपि तदर्थता।नित्येऽपि ब्रह्मलोकादेस्संप्राप्तिरवधार्यते॥
मूलम्
आप्ताभिप्रायमाचार्याः विध्यर्थं लाघवाद्विदुः। वेदस्य पोरुषेयत्वे मानं चापि विधिं विदुः॥
टीका
न्या. कु.[5 स्त.]
मूलम्
इति नैयायिकामतसारांशे विशदीकृतः।अथ वेदान्कसिद्धान्ते विशेषः प्रतिपाद्यते॥