742 प्रतिषेधोपपत्तिः

मूलम्

प्रतिषेधाधिकारेऽपि विधिवृत्तपरिक्षया।एवं नरकपातादिफलयोगो न दुर्वचः॥

मूलम्

करणंशेऽपि लिप्सताः प्रवृत्तिर्यदायुपेयते।इतिकर्तव्यतांशे तु शास्त्रादिति न युक्तिमत्॥

मूलम्

नहि तत्करणं शुद्धं स्वफलायोपकल्पते।सेतिकर्तव्यताकं हि करणं करणं विदुः॥

मूलम्

उभयत्रापि लिप्सतः सतिचैवं प्रवर्तने।अग्नीषोमीयहिंसादेः स्यादेव श्येनतुल्यता॥

मूलम्

तदुत्सर्गापवादाख्यन्यायस्यैव विमर्शनात्।न हिंस्यादिति सामान्यागोचरत्वावधारणा॥