मूलम्
नियोग़ादथनिष्पत्तिः फलस्येत्यभिधीयते।फलं प्रत्यङ्गभूतत्वादवाक्यार्थत्वमापतेत्॥
मूलम्
प्रेरणावगमादेव प्रवृत्तिर्यदि सिद्ध्यति।स्वर्गकामपदं तत्स्यादाधिकारिविशेषताम्॥
मूलम्
यो हि येन विना लोके न सिद्ध्येत्स तमाक्षिपेत्।नियोज्यमात्राक्षेपे स्यान्नियोगो न फलात्मकः॥
मूलम्
ननु च स्वर्गकामोऽत्र नियोज्यः नान्यथा भवेत् । यदि स्वर्गस्य संपत्तिं नाधिगच्छेत्स्वकर्मणः ॥
मूलम्
नरेच्छामात्रमेवेदं, न शब्दस्त्वियति क्षमः । नियोज्यः स्वर्गकामो हि भवेज्जीवनवानिव ॥
मूलम्
विधेरेष स्वभावश्चेदायुष्मन् साधु बुध्यसे । भाट्टैः किमपराद्धं ते नित्येऽपि फलवादिभिः ॥
मूलम्
अधिकार्यनुपादेयविशेषणविशेषितः । जीवन्वा स्वर्गकामो वा समानः काम्यनित्ययोः ॥
मूलम्
विधिवीर्यस्वभावस्तु क्रिमेरपि तथाविधेः । सप्रत्ययप्रेरकतां विधिर्नोपैति निष्फलः ॥
मूलम्
प्रत्यवायपरीहारो वोपात्तदुरितक्षयः । फलं नित्ये, प्यन्यथा स्यादर्थानर्थाविवेकिता ॥
टीका
तन्त्र.[240]