मूलम्
अथ नैयायिकमते फलमेव प्रवर्तकम् ।सम्मतं तत्र सारांशसंग्रहोऽप्यवर्धायताम् ॥
मूलम्
रागादेव प्रवृत्तिश्चेज्जन्मान्तरविनिश्चयः ।रागिणामेव जन्मेति वीतरागेति सूत्रितम् ॥
टीका
न्या. सू.[3-1-25]
मूलम्
यदि रागान्न प्रवृत्तिः स्वभावः कुशली भवेत् ।शास्त्रं निरधिकारि स्यात् इति नैयायिकाशयः ॥
मूलम्
सुखे दुःखनिवृत्तौ वा पुंसां भवति कामना ।न पुनः व्योमपुष्पादि कश्चित्कामयते नरः ॥
मूलम्
भयं नाशङ्कते यस्मात्फलं वापि समीहितम् ।तथाविधस्य राज्ञोऽपि नाज्ञाऽनुष्ठीयते जनैः ॥
मूलम्
वर्तमानापदेशेऽपि फलं यत्रावगम्यते ।तत्र प्रवर्तते लोकः लिङ्गादिष्वश्रुतेष्वपि ॥
मूलम्
शास्त्रमूला प्रवृत्तिश्चेददोषाऽभ्युपगम्यते । शास्त्रोत्थरागामूलाऽपि तादृक्स्यादिति तार्किकाः ॥
टीका
न्या. म.[356]