737 निषेधतत्त्वम्

मूलम्

इयत्प्रयासहेतुश्च वक्ष्यमाणो विनिश्चितः।अवस्तुत्वादभावनस्य न नृशृङ्गं नियुज्यते॥

मूलम्

नोपादेयं नैव हेयं न कार्यं नापि कारणम्।को विधिः को निषेधोऽत्र प्रख्योपाख्याविवर्जिते॥

मूलम्

न कलञ्जनं भक्षयेदित्येवमादिरपार्थकः।नियोग इति हि प्राहुरभावावस्तुवादिनः॥

मूलम्

विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्।अनिग्रहाच्चेन्द्रियाणां नरः परनमृच्छति॥

टीका

याज्ञ.[3-219]

मूलम्

इत्यादिस्मृतिवाक्यार्थभङ्ग्यो भाष्यकृतामपि।आभावावस्तुसिद्धान्तमूलदोषनिबन्धनाः॥

मूलम्

अभावः कारणं कार्यं वस्तु येषां विपश्चिताम्।तेषां पुनः नवीनानां प्रयासौ नैव कश्चन॥

मूलम्

यस्याभावोऽधिकरणं यस्य भावान्तरं च वा।सर्वं तद्विषयं ज्ञेयं न विचारोऽत्र कश्चन॥

मूलम्

अत्र राणककारेण प्रोक्तं भङ्ग्यन्तरं त्विदम्।स्वकाले यदकुर्वन् तत् करोत्यन्यदचेतनः॥

टीका

न्या.सु.[603]

मूलम्

प्रत्यवायोऽस्य तेनैव नाबावेन स जन्यते।इत्युक्तं तदपि प्रोक्ताभावतत्त्वविकल्पना॥