मूलम्
विधिना युज्यते यत्र न ह्यन्नान्न पिबेदिति।नात्राभावार्थता यस्मात्प्राप्तं हि प्रतिषिध्यते॥
मूलम्
रागादीना यदि प्राप्तं पानं च हननं च वा।कथं वा कथ्यते तत्राभावो भावनिवर्तितः॥
मूलम्
यदि नानुष्ठास्यतेऽत्र प्राप्तिर्नैव प्रसिध्यति।तस्मादत्र निषेधार्थतत्त्वमेतन्निरूपितम्॥
मूलम्
स च केशेषु पुरुषं गृहीत्वा विनिवर्तयन्।चिकीर्षिताच्च व्यापारात् अभावं स्थापयत्यपि॥
मूलम्
अन्यथैव प्रवर्तन्ते भावाभावाधियोऽपराः।व्वस्थितबहिर्वस्तु परिच्छेदफलात्मिका॥
मूलम्
अन्यथाऽनागतोत्पाद्यभावप्रेरनवारिका।अन्तस्संकल्पमूलात्मा वृत्तिर्विधिनिषेधयोः॥
मूलम्
एतदुक्तं भवत्यत्र न्यायरत्नाकरोदितम्।यथा विधिर्विधेयस्य चेष्टहेतुत्वसिद्धये॥
मूलम्
प्रमाणीभूतसंकल्पं पुंसोऽनुष्ठानगोचरम्।जनयित्वा तेन पुंसा व्यापारं कारयन् स्वयम्॥
मूलम्
तत्र कारकहेतुस्स्यात् निषेधोऽपि तथैव हि।निषिद्धस्यानिष्टहेतुभावे मानं भवन् ततः॥
मूलम्
अनुष्ठानसंकल्पं वैराग्याज्जनयन् पुनः।तदभावव्यवस्थायां च करोतीति सुनिश्चितम्॥
मूलम्
तथाच यदि रागादिप्राप्तं विध्यर्थलक्षणम्।कर्तव्यत्वं लिङाऽनूद्य नञा तस्य निषेधनम्॥
मूलम्
यदिवाऽत्र नञर्थस्य वर्जनस्य विधेयता।लिङाऽवबोधः द्वेधाऽपि व्यापारोऽनर्थहेतुताम्॥
मूलम्
कल्पयन् अननुष्ठानसंकल्पजननात्परम्।निवारणं स्यादित्येतान्निषेधस्य निरूपणम्॥