734 पर्युदासः

मूलम्

नञर्थस्य विचारेऽपि किंचिदत्र प्रकाश्यते।त्रिविधा हि नञो वृत्तिः कुमारिलमुखेरिता॥

टीका

श्लोक.[930]

मूलम्

पर्युदासः तथाभावः प्रतिषेधस्तथेति च ।पर्युदासस्स विज्ञेयः यत्रोत्तरपदेन नञ्॥

मूलम्

प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्।इति कैश्चिन्निरुक्तं हि तत्रार्थः फलिस्तस्त्वसौ॥

मूलम्

अन्योन्याभावबोधे तु पर्युदास इतीर्यते।अत्यन्ताभावबोधे तु प्रसज्यप्रतिषेधवाक्॥

मूलम्

नेक्षेतोद्यन्तमादित्यं तथाचाब्रह्मणं नय।इतियादावीक्षणाद्विप्रात् अन्यद्वस्त्ववगम्यते॥

मूलम्

ईक्षमव्यतिरिक्ता हि क्रिया तत्राप्यपेक्षिता।प्रत्यासत्तेर्न संकल्पमतिक्रम्यावगम्यते॥

मूलम्

तथैव क्षत्रियाद्यर्थः पर्युदस्तः प्रतीयते।नामधात्वर्थयोगी च नञ्तोऽन्यार्थगोचरः॥