मूलम्
यजेतेति पदात्कार्यप्रधानं यागागोचरम्।स्यात्कार्यं यागविषयमिति बोधस्स चादिमः॥
टीका
वादावलिः.[ ]
मूलम्
ततश्च यागाविषयं कार्यं स्यात्स्वर्गसाधनम्।इत्यर्थाध्याहारविद्भिः द्वितीयो बोध इष्यते॥
मूलम्
स्वर्गकामपदश्रुत्या स्वर्गकामनियोज्यकम्।प्रागुक्तद्विदळं कार्यमिति स स्यात्तृतीयकः॥
मूलम्
ततश्च स्वर्गकामीयकृतिसाध्यमिति क्रमात्।प्रागुक्तत्रिदळं कार्यमिति बोधस्तुरीयकः॥
मूलम्
नापूर्वे स्वर्गहेतुत्वं यागे तेन विवा भवेत्।इति चानुपपत्तेस्तु प्रतिसन्धानसंभवे॥
मूलम्
स्वर्गकामकृतेस्साध्यः स्वर्गकामनियोज्यकः।स्वर्गस्य साधनं याग इति बोधस्तु पञ्चमः॥
मूलम्
यदप्यनुपपत्तेस्तु प्रतिस्धानमुच्यते।तदुपादानमित्युक्तं धीरौपादानिकी ह्यसौ॥
मूलम्
विध्याक्षेप उपादानं श्रुतार्थापत्तितः पृथक्।सा स्यादभिहितापर्यवसानाऽश्रुतकल्पना॥
टीका
तात्पर्यदी.[215]
मूलम्
अभिधानानवसितिः उपादानमितीर्यते।तेनौपादानिकी त्युक्ता फलसाधनमतामतिः॥
मूलम्
इति प्राभाकरमतं वादारम्भसमर्थने।वादावळावन्ववादीदनन्तार्य़बुधोत्तमः॥