732 सर्वलाक्षणिकपक्षः

मूलम्

ननु लोकविरुद्धत्वं पक्षेऽस्मिन्नपि द्दश्यते।सर्वदैव यतो लोके क्रियाकार्यं प्रतीयते॥

मूलम्

यदि स्यातां विरोधस्यात् क्रियाकार्यत्वगोचरौय़।प्रतिपत्तिप्रयोगौ तौ कार्येऽपूर्वेऽपि लौकिके॥

मूलम्

प्रमाणान्तरगम्यं हि लोकश्शब्दैर्विवक्षति।क्रियाकार्यत्व एवातः प्रयोगो लक्षणान्वितः॥

मूलम्

अभिधेयं लिङादीनामपूर्वं कार्यमेव तत्।अपूर्वेण क्रियाकाक्यं नित्यं संबद्धमित्यतः॥

मूलम्

लिङादयः क्रियाकार्ये बुधैर्लाक्षणिकं मताः।तत्रान्विताभिधावादे सर्वं लाक्षणिकं मतम्॥

मूलम्

लक्षणानभिविज्ञानं मुख्यार्थानवधारणात्।येतु मुख्यार्थकुशलाः तेषां लाक्षणकत्वधीः॥

मूलम्

तस्मान्मानान्तरावेद्यं कार्यमर्थान्तरान्वितम्।वेदार्थ इति सिद्धान्तः प्रभाकरगुरोर्मतः॥

मूलम्

वाक्यार्थमातृकायां च श्रीभाष्येऽपिच विस्तरः।शाब्दवोधक्रमस्त्वेषः कार्यवाक्यार्थवादिनाम्॥