731 प्रधानत्वम्

मूलम्

कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वं च युच्यते।वाक्यं तदेव हि प्राह नियोज्यविषयान्वितम्॥

मूलम्

आत्मसिद्ध्यनुकूलस्य नियोज्यस्य प्रसिद्धये।कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः॥

मूलम्

अतः पुरुषकारश्च दैवं च फलसाधनम्।मुख्यं दैवमपूर्वं स्यात् सहकारि तु पौरुषम्॥

मूलम्

एवं निय्याधिकारादौ जिवनाद्येऽवधारिते।आत्मीयकार्यावगामात्प्रवृत्तिरुपपद्यते॥

मूलम्

फलं फलतया नान्वीयते किंत्वधिकारिणः।विशेषणतयैवेति प्राभाकरविनिश्चयः॥

मूलम्

एवं कामाधिकारार्थपर्यालोचनयोत्थिता।व्युत्पत्तिस्सर्ववाक्यार्थप्रतिपत्तौ निबन्धनम्॥

मूलम्

तस्माल्लोकानुसारेण व्युत्पत्तिः कार्यमात्रके।तस्य त्वपूर्वरूपत्वं वेदवाक्यविमर्शजम्॥