मूलम्
संगधार्यमिदं त्वत्र तत्कार्यं किं क्रियात्मकम्।उत तद्व्यतिरेकीति, तत्र लोकानुसारतः॥
मूलम्
लिङादिस्तत्र कार्यं चेत्क्रियामेवावबोधयेत्।समन्यवयो नियोज्येन तदानीं नावकल्पते॥
मूलम्
नियोज्यस्त च कार्यं यस्स्वकीयत्वेन बुद्ध्यते।स्वर्गादिः कामयोगाच्च साध्यत्वेनैव गाम्यते॥
मूलम्
क्रिया हि क्षणिकत्वेन न कालान्तरभाविनः।स्वर्गादेस्साध्यमानस्य न क्षमा जननं प्रति॥
मूलम्
इष्टस्याजनिका सा च नियोज्येन फलार्थिना।कार्यत्वेन न संबन्धमर्हति क्षणभङ्गिनी॥
मूलम्
तस्मान्नियोज्यसंबन्धसमर्तं विधिवाचिभिः।कार्यं कालान्तरस्यापि क्रियतो भिन्नमुच्यते॥
मूलम्
क्रियादिभिन्नं यत्कार्यं वेद्यं मानान्तरैर्न तत्।अतो मानान्तरापूर्वमपूर्वमिति गीयते॥