मूलम्
यागानुष्ठानतः कार्यमात्मानं लब्धुमर्हति।नच कर्त्रा विना तस्यानुष्ठानमुपपद्यते॥
मूलम्
न विना चाधिकारेण कर्तुर्लाभः क्वचिन्मतः।नियोज्यमन्तरा क्वापि नाधिकारः प्रसिद्ध्यति॥
मूलम्
नकदाऽप्यविशिष्टोऽत्र नियोज्यो ह्यवकल्पते।एवं विशेषणतया स्वर्गस्तत्रावकल्पते॥
मूलम्
कर्तृत्वमधिकारित्वं नियोज्यत्वमिति स्थितम्।अवस्तात्रितयं तत्रानुष्ठातृत्वं हि कर्तृता॥
मूलम्
अधिकारः स्वकीयत्वबुद्धिमत्त्वं हि कर्मणि।कार्ये स्वकीयत्वबुद्धिमत्ता तु स्यान्नियोज्यता॥