मूलम्
कार्ये मानान्तरावेद्ये क्रियादिव्यतिरेकेणि।व्यवहारत एवाहुः व्युत्पत्तिं प्रेरकात्मनि॥
मूलम्
शब्दान्तराणि स्वार्थेषु व्युत्पद्यन्ते यथैव हि।आवापोद्वापभेदेन तथा कार्ये लिङादयः॥
मूलम्
कार्यमेव हि कर्तृ्णां ज्यायस्समकनीयसामम्।भेदात्प्रैषामन्त्राणाध्येषणादिव्यापदेशभाक्॥
मूलम्
कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयते।तच्च मानान्तरेणापि वेद्यमोनपाकवत्॥
मूलम्
एवं कार्यात्मकोऽप्यर्थे व्युत्पाद्यन्ते लिङादयः।तदन्वितेषु स्वार्थेषु तथा शब्दान्तराण्यपि॥