726 इष्टसाधनतातिरेकः

मूलम्

प्रभाकरगुरूणान्तु कार्यवाक्यार्थवादिनाम्।वाक्यार्थसंग्रहस्सोऽयं विविक्तप्रतिपत्तये॥

टीका

प्रक. वाक्यार्थमातृका[ ]

मूलम्

आस्तां तावत्क्रिया लोके गमनागमनादिका।अन्ततस्तनपानादितृप्तिकारिण्यपि क्रिया॥

मूलम्

सा यावन्मम कार्ययमिति नैवावधार्यते।तावत्कदाऽपि लोकेत्र प्रवृत्तिर्न भविष्यति॥

मूलम्

पुंसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः।प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम्॥

मूलम्

कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः।विपरीतं त्वकर्तव्यमिति तद्विषये मतिः॥

मूलम्

इतियाहुर्ण्डनाचार्याः गुरुभिस्तन्नचेष्यते।कार्यता कृतिसाध्यत्वं फलसाधनला पुनः॥

मूलम्

कारणत्वं फलोत्पादे भिद्येते ते परस्परम्।किंच स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत्॥

मूलम्

फलसाधनता तत्र कारणं तेन कार्यता।तद्भावभाविनी नित्यं तदात्मेव प्रतीयते॥