725 निमित्ताधिकारः

मूलम्

कामप्रध्वंससिद्धान्ते सर्वं नैमित्तिकं मतम्।स्वर्गादिकामनानां तु निमित्तत्वमुपाश्रितम्॥

टीका

जै. सू.[6-2-9]

मूलम्

स्त्रीकामो निष्कृतिं कुर्यादित्यादिषु निमित्तता।प्रतीयते नतु खलु फलसाधनता क्वचित्॥

मूलम्

न पारलौकिस्स्वर्गः किन्त्वैहिकसुखं सुखम्।धनधान्यादिऋद्धिश्चेत्पुंसामिच्छा सुखे भवेत्॥

मूलम्

यागेन तद्व्यये जाते कामः प्रध्वंसते स्वयम्।अतएव क्षत्रियाणां विश्वजिद्यागशासनम्॥

मूलम्

तत्रापि स्वर्गक्लृप्तिस्तु जैमिमेर्दैन्यलक्षणा।तथैन रात्रिसत्रेऽपि वेदो हि प्रभुसम्मितः॥

मूलम्

प्रत्यवायपरीहारोऽप्यत्र कार्पण्यलक्षणः।शंय्वन्ताधिक्रियान्यो नैतत्सिद्धान्तसम्मतः॥

मूलम्

नित्यं नैमित्तिकं कर्म कर्तव्यमिति वैदिकः।पन्थाः पुराणोऽयमत्र गीता भगवता स्वयम्॥

मूलम्

इमं विवस्वते योगं प्रोक्तवाहनहमव्ययम्।स कालेनेद महता योगो नष्टः पुरातनः॥

टीका

भ. गी.[4-1]

मूलम्

कर्मण्येवाधिकारस्ते कुरु कर्मैव तत्पुनः।यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत्॥

मूलम्

अन्यत्र विस्तरस्तस्य द्रष्टव्योऽस्माभिरीरितः।अत्रापि च पुरः स्पष्टः फलकाण्डे भविष्यति॥