मूलम्
प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्प्यते।निषेध्यविषयादेव लब्धत्वादाधिकारिणः॥
मूलम्
तत्रास्मिन् कल्प्यमानेऽपि नरकादिफलादये।अवैधत्वं प्रसज्येत न ह्याकाङ्क्षेदृशी विधेः॥
मूलम्
विधेरपेक्षे द्वे एव नियोज्यविषयौ प्रति।तत्पूरणेन तृप्तस्तु न वाञ्छति ततोऽधिकम्॥
मूलम्
नियोज्यस्तावदेतावान् क्रुद्धोऽरिहननोद्यतः।विषयस्तन्निवृत्तिस्स्यान्नियोगोऽतोऽत्र पुष्कलः॥
मूलम्
कथं नरो निवर्तेत प्रत्यवायभयाद्विना।मा निवर्तिष्ट,विधिना तावदुक्तं निवर्तनम्॥
मूलम्
प्रवृद्धतररागान्धः प्रत्यवायेऽपि कल्पिते।न निवर्तत इत्येवं किं विधेरप्रमाणता॥
मूलम्
फलं भवतु मा वा भूत् पुरुषोऽपि प्रवर्तताम्।मा प्रवर्तिष्ट वा शास्त्रं नियुङ्क्ते त्वधिकारिणम्॥