मूलम्
कामाधिकारे तु नियोज्यान्यथाऽनुपपत्तितः।फलक्लृप्तिः तत्प्रवृत्तिस्तस्माक्लिप्सार्थलक्षणा॥
मूलम्
अतएवाधर्मतेति श्येनादे्रिति निर्णयः।अर्थशब्दः प्रयु्क्तोऽतः तादृशानर्थवारकः॥
मूलम्
नित्येतिकर्तव्यतांशे शास्त्रमेव प्रवर्तकम्।अतोऽग्नीषोमीयहिंसा नाधर्म इति ते विदुः॥