722 नित्याधिकारः

मूलम्

नित्याधिकारे तत्कर्म वेदोऽसौ शुचिजीविनः।विधत्तेऽतोऽफलमपि कार्यमित्येव कुर्वते॥

मूलम्

विहिताकारणायत्तप्रत्यवायापनुत्तये।कर्तव्यमिति सिद्धान्तः भाट्टैः पर्यायतः कृतः॥

टीका

तन्त्र.[240]

मूलम्

तदेकदेशिनां पण्डापूर्वमिष्टं फलात्मकम्।स्वतएव पुमर्थत्वं तस्य पण्डत्वमिष्यते॥