मूलम्
अनुबन्धद्वयं तस्य विषयश्चाधिकार्यपि।नियोगः कस्य कुत्रेति तदाकाङ्रक्षे इमे उभे॥
मूलम्
विषयः पलहेतुश्चेत्फलकामोऽधिकार्यतः।फलं पुंबुद्धिमूलं तत् न शास्त्रीयमिति स्थितिः॥
मूलम्
यावज्जीवं सुकं जीवेदित्यादीच्छानिवारकम्।यावज्जीवं चाग्निहोत्रं कर्तव्यमिति शासनम्॥
मूलम्
न दैन्यमीदृशं सोढुं स्वतन्त्रं शास्त्रमर्हति।यत्प्रवर्तयितुं पुंसः न शक्नोति फलं विना॥