मूलम्
नियोगवाक्यार्थवादिटीकाकारमतं पुनः।प्रदर्श्यतेऽथ यच्छिष्या कार्यवाक्यार्थवादिनः॥
टीका
वि. वि.[48]
मूलम्
कर्ता संख्या तथाचार्थभावना शब्दभावना।तस्याः कृतिः तदाख्यानं चेत्येतदतिदुर्भरम्॥
टीका
न्या. म.[345]
मूलम्
तस्मान्नियोग एकोऽर्थः कालत्रयविवर्जितः।नियुक्तोऽस्मीत्यनुभवात् प्रेरणात्माऽथ तद्धिया॥
मूलम्
आत्मकूतविशेषो यः अत्मधर्मस्स जायते।भैतिकस्पन्दहेतुस्सः न मानान्तरगोचरः॥
मूलम्
औदासीन्यप्रच्युतिर्वा योद्योग इति कीर्त्यते।आद्या प्रवृत्तिराकृतं चिकीर्षेत्यादिनामभाक्॥
मूलम्
शब्दस्यैव लिङादेर्यैः बुधैः प्रेरकतेष्यते।तेऽत्यन्तभीरवस्तस्मिन् संगतिग्रहणालसाः॥