718 शाब्दबोधक्रमः

मूलम्

यजेतेत्यत्राख्यातं लिङ्त्वेनाख्याति भावनम्।अभिधाख्यां तथैवार्थीमाख्यातत्वेन बोधयेत्॥

टीका

भाट्टरहस्यम्.[ ]

मूलम्

उभे अंशत्रययुते इति विश्रुतमेव तत्।विशिष्टाशाब्दीप्रयोज्या तादृश्यार्थीति गम्यते॥

मूलम्

प्रयोज्यत्वं स्वविष्यज्ञानजन्माऽनुमा तु या।तत्प्रयोज्यत्वनुमा त्वेतादृश्यत्र गम्यताम्॥

मूलम्

यागो मदिष्टदहेतुस्स्यात् इत्याकारा तया पुनः।पुमान् प्रवर्तत इति प्रयोज्यत्वं निरूपितम्॥

मूलम्

यागस्य चेष्टहेतुत्वमेव प्राशस्त्यलक्षणम्।स शब्दभावनांशस्सन् एवमत्रोपयुज्यते॥