मूलम्
अभिधाभावनामाहुरन्यामेव लिङ्गादयः।अर्थात्मा भावना त्वन्या सर्वाख्यातेषु दृश्यते॥
टीका
तन्त्र.[345]
मूलम्
प्रयत्नव्यतिरिक्तार्तभावना तु न शक्यते।वक्तुमाख्यातवाच्येति सिद्धान्तः राणकेरितः॥
टीका
न्यायसु.[579]
मूलम्
कार्यत्वान्तःप्रविष्टा या कृतिस्सैवहि भावना।स्वर्गादेर्भवितुर्भावयित्रि स्याद्भावकाश्रिता॥
मूलम्
तेन व्यापारसामान्यं पुंव्यापारनिबन्धनम्।इति सिद्ध्या स स्वभाववादो लौकायतो हतः॥
मूलम्
विधेर्लक्षणमेतावदाप्रववर्तनम्।अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः॥
मूलम्
णिजर्थात्तु लिङर्थोऽसौ प्रेरणाऽस्ति विलक्षणा।ज्ञापकव्यापाक एष स तु कारकसंश्रितः॥
मूलम्
प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते।अप्राप्ते प्रेषमं सर्वं विधित्वं प्रतिपद्यते॥
मूलम्
विधिः प्रवर्तकत्वाख्यस्वरूस्योपपत्तये।स्वर्गं साध्यतया यागं साधनत्वेन बोधयेत्॥
मूलम्
अथापि शाब्दी शक्तिस्सा प्रधानमिति गम्यते।अतस्त्विष्टोपायतैषा धात्वर्थस्थेति सूरयः॥
मूलम्
वाक्यार्थाधिकृतावस्य विस्तरः श्लोकवार्तिके।शाब्दबोधकक्रमस्त्वेष खण्डदेवादिशोधितः॥