716 धात्वर्थसामान्यम्

मूलम्

अन्ये धात्वर्थसामान्यं भावनामभ्युपागमम्।यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत्॥

मूलम्

धात्वर्थव्यतिरेकेण यद्यप्येषा न लभ्यते।तथाऽपि सर्वसामान्यरूपेणान्या प्रतीयते॥

टीका

तन्त्र.[351]

मूलम्

सा धातोः प्रत्ययाद्वाऽपि भावनाऽवगता सती।अपेक्षतेंऽशत्रितयं किं केन कथमित्यदः॥

मूलम्

सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः।अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी॥

मूलम्

सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः।इत्याहुरपरे प्राज्ञाः भावनातत्त्ववेदिनः॥

मूलम्

भावनैवहि वाक्यार्थः सर्वत्राख्यातवत्तया।अनेकगुणजात्यादिकारकार्थानुराञ्जिता॥

मूलम्

एकयैवहि बुद्ध्याऽसौ गृह्यते चित्ररूपया।पदार्थाहितसंस्कारचित्रपिण्डप्रसूतया॥

मूलम्

पदात्प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजृम्भते।पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति॥