715 प्रयत्नः

मूलम्

पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते।औदासीन्यदशाऽपायं पुमान् येन प्रपद्यते॥

मूलम्

स यत्नो यागादानादिक्रियानिर्वृत्तिकारमम्।तस्य तद्व्यतिरेक्तत्वं प्राय्स्सर्वोऽनुमन्यते॥

मूलम्

नचायमात्मधर्मोऽपि न विभुत्वादिवन्मतः।साध्यरूपाभिसंबन्धात् धत्ते विषयतां विधेः॥