मूलम्
वाक्यार्थभावनापक्षसारांशोऽथावधार्यताम्।भाव्यनिष्ठो भावकस्य व्यापारो भावना मता॥
मूलम्
सा शब्दभावनाऽथार्तभावनेत्यपिच द्विधा।विभज्य व्यवहारस्य विषयीक्रियते बुधैः॥
टीका
तन्त्र.[345]
मूलम्
पुंप्रवृत्त्यनुकूलात्मा व्यापारश्शब्दभावना।प्रवर्तना प्रेरणा सा नियोग इति कीर्त्यते॥
मूलम्
क्रियानुकूलः पुरुषव्यापारो ह्यर्थभावना।कृतिः प्रयत्न इत्यादिपर्यायपदशाब्दिता॥
मूलम्
लोकेऽस्मिन्नभिधाशब्दः शब्दव्यापारबोधकः।अतोऽभिधाभावनेति तामाहुश्शब्दभावनाम्॥
मूलम्
भावना या तु पुरुषैरिष्टोपायतयाऽर्थ्यते।पुंव्यापारात्मिका सैषा कीर्त्यते चार्थभावना॥
मूलम्
भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते।तत्सिद्धान्तकटाक्षेण भाव्येत्यादिपरिष्कृतिः॥
टीका
पा. भा.[4-20]
मूलम्
सैव वाक्यार्थ इति कुमारिलविनिर्मयः।वेदाद्गुरुनियोगाद्वा शासनाद्वा महीभुजाम्॥
मूलम्
न सचेताः क्रियां कांचित् अनुतिष्ठति निष्फलाम्।वस्तुतस्तु फलं तस्मात्प्रधानमवगम्यते॥
मूलम्
सएव वाक्यार्थ इति वक्तुं युक्तुं च यद्यपि।तथाऽपि काम्यमानत्वात् सिद्धं तन्नावगम्यते॥
मूलम्
साध्यमानत्वपक्षे तु साक्षात्तत्सिद्ध्यवेदनात्।व्यापार एव तन्निष्ठः वाक्यवेद्य इतीष्यताम्॥
मूलम्
अत एवाहि वाक्यार्थं भावनां प्रतिजानते।यथोचितफलाढ्यां च त्रयसंबन्धबन्धुराम्॥
मूलम्
आस्तां विधिपदं तावद्वर्तमानापदेशिनः।शब्दाद्यजत इत्यादेः भावना न न गम्यते॥