मूलम्
शब्दवित्संप्रदायोऽस्मिन् वाक्यं प्रायेण शोधितम्।अर्थवित्संप्रदायोऽपि तथा किंचिद्विचार्यते॥
टीका
न्या. म.[330]
मूलम्
क्रियावाक्यार्थपक्षश्च बादार्याचार्यसम्मतः।शेषलक्ष्माधिकरमे जैमिनीये निरूपितः॥
मूलम्
पदार्थाः किल वाक्यार्थभावमायान्ति संहताः।अपेक्षानुगुणान्योन्यव्यतिषङ्गविशेषतः॥
मूलम्
साध्यं निष्पाद्यमानत्वात् प्रधानमवगम्यते।तस्मात्तदेव वाक्यार्थः क्रियातो नापरं तत्॥
मूलम्
यजेत दद्याज्जुहुयात् अधीयीतेति बोधितः।क्रियां साध्यतया वेत्ति तां च लोकोऽनुतिष्ठति॥
मूलम्
क्रियैव तावत्कार्यात्मा प्रेरणात्मा फलार्थिता।प्रतीयते ततोन्यस्तु नियोगे नोभयात्मकः॥
मूलम्
कुर्यादित्येवमादिभ्यः क्रियादिव्यतिरेकिणः।नार्थान्तरस्य संवित्तिः कस्यचित्प्रेरणात्मनः॥
मूलम्
स चोदनामतिक्रामेत् यः क्रियां नानुतिष्ठति।यश्शब्दपरतन्त्रस्स्यात् शब्दप्रामाण्यवाद्यसौ॥
मूलम्
फलभिसन्धिहीनोऽपि कर्मसंस्कारसंस्कृतः।परिपक्वकषायस्स्यात् स्तोकस्तोकक्रमादसौ॥
मूलम्
प्रपञ्चप्रविलापेन चोत्तमाधिक्रियायुतः।ज्ञातास्वादस्तमेवासौ पुमर्थं प्राप्तुमिच्छति॥
मूलम्
विस्तरस्तु मतस्यास्य ज्ञेयो विधिविवेकतः।प्रायेणैते निष्प्रपञ्चनियोगन्यायवादिनः॥