मूलम्
तत्रानवये स्फोटे तदर्थे प्रतिभात्मके।वाक्येऽप्यथच वाक्यार्थे संबन्धोऽध्यासलक्षणः॥
मूलम्
एके तादात्म्यमिच्छन्ति परे परिणतिं विदुः।तद्बिम्बप्रतिबिम्बत्वं वेति कैश्चिद्विकल्प्यते॥
मूलम्
अवशिष्टेषु पक्षेषु वाच्यवाचकतात्मिका।मीमांसकानां दृष्ट्या तु संबन्धो योग्यता मता॥
मूलम्
शाक्यद्दष्ट्या तु शब्दार्ते बौद्धे विज्ञानवादतः।कार्यकारणभावाख्यस्संबन्ध इति निश्चितः॥
मूलम्
बाह्यार्थे त्वथ वाक्यार्थे स च संकेतलक्षणः।इति तार्किकसिद्धान्त इति रीतिश्चतुष्टयी॥
मूलम्
पदानि कल्पितमिति टीकाकारमतं स्मृतम्।वाक्यं तु कल्पितमिति पदकारमतं श्रुतम्॥
टीका
वा. प.[2-57]
मूलम्
अभेदपूर्वका भेदाः कल्पिता वाक्यवादिभिः।भेदवूर्वानभेदांस्तु मन्यन्ते पददर्शिनः॥