710 वाक्यार्थविकल्पः

मूलम्

सखण्डपक्षे वाक्यार्थः क्रमसंघातपक्षयोः।संसर्ग इति, संघातपक्षेऽप्यस्ति मतान्तरम्॥

मूलम्

पदार्थ एव विश्रान्तः विशेषे वाक्यगोचरः।आख्यातशब्दपक्षे तु क्रिया वाक्यार्थ इष्यते॥

मूलम्

प्रतिभा यत्प्रबूतार्था यामनुष्ठानमाश्रितम्।फलं प्रसूयेत यतः सा क्रिया वाक्यगोचरः॥

मूलम्

संसृष्ट एव वाक्यार्थः तुर्यपञ्चमकल्पयोः।अभिधेयः पदार्थस्स्यात् वाक्यार्थस्तु प्रयोजनम्॥

मूलम्

इत्युक्तः फलवाक्यार्तवादस्साधारणो मतः।लक्षणानां च सर्वेषां वाक्यार्थष्षडिमे मताः॥

मूलम्

प्रतिभाचैव संसर्गः पदार्थश्च विशेषतः।पदार्थ एव संसृष्टः क्रिया चाथ प्रयोजनम्॥

मूलम्

अत्रान्विताभिधानं स्यात् क्रियासंसृष्टपक्षयोः।चतुर्ष्वप्यवशिष्टेषु पक्षेष्वभिबितान्वयः॥

मूलम्

प्रतिभायां त्वेकरसा प्रतिपत्तिरुदेत्यतः।न तत्र काचिच्चर्चाऽस्ति मतयोरुभयोरपि॥

मूलम्

ये मीमांसकवाक्यार्थविकल्पा भावनादयः।तेऽप्यत्रान्तर्भावन्तीति न स्यादधिककल्पना॥

मूलम्

क्रियैव भावना तत्र प्रकृतिप्रत्ययार्थयोः।विवादः केवलं वैयाकरणानां तु तैस्सह॥

मूलम्

नियोगाद्यास्तु वाक्यार्थाः लिङ्गादियुतवाक्यगाः।न सर्ववाक्यविषया इति तेष्विह नादरः॥

मूलम्

अनादितत्तद्वाक्यार्थविकल्पोत्थैरुपप्लवैः।बहीरूपतयाऽध्यस्तैः क्रमवद्भिरिवाक्रमे॥

मूलम्

पदार्थैश्चित्रत इव विकल्पोल्लेखलक्षणः।आकारो बहिरध्यस्तः निरंशश्शाक्यसम्मतः॥

मूलम्

वाक्यार्थो यः प्रायशोऽसौ प्रतिभायास्सहोदरः।अथातो वाक्यवाक्यार्थसंसर्गस्य विकल्पना॥