मूलम्
तत्र चाखण्डपक्षे तु लक्षणेष्वपिच त्रिषु।प्रतिभा वाक्यार्थ इति तत्स्वरूपं निशम्यताम्॥
मूलम्
विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते।वाक्यार्थ इति तामाहुः पदार्थैरुपपादितामम्॥
टीका
वा. प.[2-145]
मूलम्
उपश्लेषमिवार्थानामाकरोत्यविचारिता।सार्वरूप्यमिवान्ना विषयत्वेन वर्तते॥
टीका
वा. प.[2-30]
मूलम्
प्रमाणत्वेन तां लोकस्सर्वस्समुपगच्छति।व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात्॥
मूलम्
स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलः कथम्।जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम्॥
मूलम्
आहारप्रीत्विद्वेषप्लवनादिक्रियासु कः।जात्यान्वयप्रसिद्धायु प्रयोक्ता मृगपक्षिणाम्॥