मूलम्
सखण्डे क्रमसंघाताविति यल्लक्षणद्वयम् । तत्सङ्गतं ह्यभिहितान्वयपक्षसमीक्षया ॥
मूलम्
त्रीणीतराण्यन्विताभिधानपक्षकटाक्षतः । वाक्यमेकतिङित्यादि वाक्यलक्षणवार्तिकम् ॥
मूलम्
अर्थैकत्वादेकवाक्यमिति सूत्रं च जैमिनेः । संघातपक्ष एवान्तर्भवितुं सम्यगर्हति ॥
मूलम्
भेदो वाऽप्यथ संसर्गो वाक्यार्थ इति चिन्तना । अर्थैकत्वादितिन्याये कृता भाष्ये च वार्तिके ॥
मूलम्
एवं वाक्यविकल्पेन वाक्यार्थोऽपि विकल्प्यते । तयोरपि च संबन्धः तदधीनो विकल्प्यते ॥