मूलम्
स्फोटवादोऽखण्डपक्षः स्फोटश्शब्दः ध्वनिः पुनः।तद्गुणः दीपरुचिवत् स्वरव्यञ्जनलक्षणः॥
मूलम्
बाह्य आभ्यान्तरश्चेति स स्फोटो द्विविधो मतः।जातिव्यक्तिप्रभेदेन बाह्यो द्विविध इष्यते॥
मूलम्
संघातवर्तिनी जातिः बाह्यं प्रथम ईरितः।एकोऽनवयश्शब्दः द्वितीयो व्यक्तिलक्षणः॥
मूलम्
यदन्तश्शब्दातत्त्वं तु नादैरेकं प्रकाशितम्।स स्यादाभ्यन्तरः स्फोटः तदर्थोऽप्यस्ति चान्तरः॥
टीका
वा. प.[2-30]
मूलम्
अर्थभागैस्तथैतेषां आन्तरोऽर्थः प्रकाश्यते।एकस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ॥
मूलम्
अतः प्रसिद्धरूपेण कालिदासेन कीर्तितम्।वागर्थाविव संपृक्तौ इति मङ्गलदैवतम्॥
टीका
रघुवं.[1-1]
मूलम्
यश्च बुद्ध्यनुसंहारः स निरालम्बसोदरः । अखण्डपक्षे व्याख्यातं त्रिविधं वाक्यलक्षणम् ॥