मूलम्
लिङ्गादिश्शब्द एवेति जरन्मीमांसका विदुः।तद्व्यापारात्मिका शब्दभवावनेति कुमारिलाः॥
टीका
न्यायसु.[26]
मूलम्
तदर्थस्तु नियोगोऽस्तीत्याहुः टीकाकृतः पुनः।तदर्थः कार्य इत्याहुरन्ये प्राभाकारस्तु ते॥
मूलम्
इष्टसाधनता याऽस्ति धात्वर्थे सेति मण्डनः।पुंसा नेष्टाऽभ्युपायत्वात्क्रियात्वन्यः प्रवर्तकः॥
टीका
वि. वि.[243]
मूलम्
प्रवृत्तिंहेतुं धर्मं चेत्येषा विधिविवेकवाक्।फलं स्वर्गादिरेवेति नैयायकशिरोमणिः॥
मूलम्
यमर्थमधिकृत्यात्र पुरुषः संप्रवर्तते।तत्प्रयोजनमित्थं हि सूत्रयामास गौतमः॥
टीका
न्या. सू.[1-1-24]
मूलम्
प्रवर्तिका क्रियैवेति प्रायश्शाब्दिकसम्माता।क्रियैव वाक्यार्थ इति मुनिरप्याह बादरिः॥
मूलम्
इष्टस्य कृत्यधीनात्मलाभलक्षणकार्यता।प्रवर्तिकेति वेदान्तवादिनो न्यायवेदिनः॥
मूलम्
आप्तस्य हिमकामस्य नियोगं केतिदूचिरे।यतश्श्रुतिस्स्मृतिरपि नियोगस्सर्वशासितुः॥
मूलम्
आप्ताभिप्रायमाचार्याः प्राहुश्चोदयनादयः।वेदस्य पौरुषेयत्वे मानं चापि विधिं विदुः॥
टीका
न्या. कु.[5 स्त.]
मूलम्
अज्ञातज्ञापनं वाऽथवाऽप्रवृत्तप्रवर्तनम्।अथाप्राप्तक्रियाकर्तृसंबन्ध इति कल्पना॥
मूलम्
उद्योगमपरे प्राहुरात्मस्सपन्दलक्षणम्।तत्तन्मतानुसारेण विध्यर्थोऽत्र विभाज्यते॥
मूलम्
वाक्यज्ञाने हि वाक्यार्थविज्ञानमवकल्पते।ततः प्रस्तूयते वाक्यचिन्ता प्राच्यविचिन्तिता॥