मूलम्
रजोदुमस्वभावेन चतेत्प्रवृतिर्भविष्यति।स्तनंधयप्रवृत्तिश्चाप्येवमाद्याऽऽपतिष्यति॥
मूलम्
ततश्च वीतरागादिजन्मादर्शनलक्षणम्।श्रान्तं जन्मान्तरे लिङ्गं अश्रान्तो बाह्यडिण्डिमः॥
टीका
न्या. सू.[3-1.25]
मूलम्
पूर्वाभ्यासेन लोके स्युः हर्षशोकभयादयः।जातमात्रस्य ते दृष्टाः पूर्वभ्यासनिबन्धना॥
मूलम्
पद्मादिषु प्रबोधाद्या विकारा भूतसंश्रयाः।शीतोष्णवर्षाकालादिनिमित्ता इति निश्चिताः॥
मूलम्
अयस्कान्ताभिगमनमयसो यत्प्रद्दश्यते।अन्यत्र वृत्त्यभावेन तत्स्वभावादिति स्थितम्॥
मूलम्
प्रवृत्तिस्तार्किकैस्तस्माद्दोषादेवेति सूत्रितम्।तथैव लेकानुभावोऽप्यनुकूलोऽवकल्पते॥
मूलम्
तत्र प्रवर्तकं ज्ञानं वैदिकं वाऽथ लैकिकम्।कीद्दशं त्विति जिज्ञासा सामान्येन प्रवर्तते॥
मूलम्
स्वतन्त्रा परतन्त्रेति प्रवृत्तिर्द्विधा मता।आद्या भवतु रागेण विधिनैव त्वनन्तरा॥
मूलम्
वैधविज्ञानवैमत्यात् विध्यर्थोऽपि विभिद्यते।ततो वाक्यार्थविमतिः सर्वं संगृह्यतेऽत्र तत्॥
मूलम्
फलार्था हि क्रिया लोके पुरुषार्तं फलं मतम्।पुरुषश्च क्रियार्थस्यात् इत्येवं बद्धशृङ्गले॥
मूलम्
चक्रेऽत्र कस्य प्रधान्यं कस्य वाक्यार्थतेतिच।प्रवर्तकं किमत्रस्यात् इति संशेरते बुधाः॥