मूलम्
अथ वाक्यार्थवादोऽयमेव संगृह्यते तथा।यदर्थस्सकलश्शब्दः यतो यात्राऽपि लौकिकी
मूलम्
जगत्यमिह याकाचित्प्रवृत्तिः परिदृश्यते।व्यापारोऽसौ क्रियारूपः सहि धात्वर्थलक्षणः॥
मूलम्
क्रियैवोत्पादना भावो भावेनेति च पठ्यते।चलनात्मा परिस्पन्दः गतिः कर्मेत्यपीर्यते॥
मूलम्
व्यापारस्स तु वस्तूनां स्वभावादेव जायते।रजोगुणस्वभावोऽसौ क्षीरस्येवेति कापिलः॥
टीका
वै. सू. वृ.[5-1-1]
मूलम्
तथात्वे कालदेशादिनिमानुपपत्तितः।स्वातन्त्रचेतनेच्छादिमूलस्यादिति वैदिकः॥
मूलम्
अन्यथा सकलं शास्त्रं भवेद्दत्तजलाञ्जलिः।विधानप्रतिशेधाद्यं लौकिकं चाप्यनर्थकम्॥
मूलम्
चेतनस्य स्वातन्त्रस्य ज्ञानेच्छादानिबन्धनः।अस्ति ह्याभ्यान्तरः कश्चित्प्रयत्नः कृतिलक्षणः॥
मूलम्
चेष्टादिलक्षमस्तेन बाह्यो व्यापार इष्यते।सर्वा प्रवृत्तिस्तन्मूलेत्येतदध्यक्षसुस्थितम्॥
मूलम्
बुद्धिजन्या भवेदिच्छा हीच्छाजन्या भवेत्कृतिः।कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया॥