मूलम्
अथार्हतानां सिद्धान्ते प्रमाणनयवादिनाम्।नयस्वरूपं संक्षेपाद्दिङ्मात्रमुपदर्श्यते॥
मूलम्
श्रुतप्रमाणविषयविशिष्टैकांशगोचरः।अंशान्तररौदासीन्येन परामर्शो नयो मतः॥
मूलम्
नयेनेतरसिद्धान्ताविरोधं प्रतिपेदिरे।इतरांशनिषेधे तु नयाभास उदाहृतः॥
मूलम्
सकलो विकलश्चेति चादेशो द्विविधस्ततः।नायं वस्तु नचावस्तु वस्त्वंशः कथ्यते बुधैः॥
मूलम्
नासुमुद्रस्समुद्रो वा समुद्रांशो यथैव हि।तन्मात्रस्य समुद्रत्वे शेषांषस्यासमुद्रता॥
मूलम्
काला त्मरूप संबन्धाः संसर्गोपक्रिये तथा।गुणिदेशा र्थ शब्दाश्चेत्यष्टौ कालादयो मताः॥
मूलम्
कालादिभिरभेदेन युगपत्प्रतिपादकम्।वचस्स्यात्सकलादेशः तदन्यद्विकलात्मकम्॥
मूलम्
सप्तभङ्गी सप्तमतैव प्रमाणनयावाक्ययोः।विस्तरस्त्ववगन्तव्यः प्रमाणनयलोकने॥