701 अधिकरणम्

मूलम्

यो नाम वेदतात्पर्यनिर्णयाय विरच्यते।न्यायाख्यस्सोऽधिकरणमिति व्याहृतं बुधैः॥

मूलम्

विषयो विषयश्चैव विचारो निर्णयस्तथा।प्रयोजनं च पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः॥

मूलम्

सङ्गतिर्विषयश्चैव संशयोत्थानकारणम्।संशयस्य प्रकारश्च तदर्था च विचिन्तना॥

मूलम्

तस्यां फलफलित्वं च न्यायौ द्वौ पूर्वपक्षयोः।निर्णयस्तत्फलं चेति दशाङ्गानीतरे विदुः॥

मूलम्

वाक्यस्य विषयत्वं तु यत्कोट्योस्संशयीययोः।उपस्थापकशब्दाभ्यां घटितं सत् तथैवच॥

मूलम्

सन्न्यायाधीनतात्पर्यनिर्णयादेककोटिकम्।प्रमितं जनयेत् वाक्यं तत्त्वमित्यवधार्यते॥

मूलम्

न्यायत्वं च निरुक्ताङ्गपञ्चकाद्यवबोधकम्।वाक्यजातं यथा न्यायवाक्यं शास्त्रान्तरे मतम्॥

मूलम्

अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिका।तद्धेतुज्ञानविषयसंबन्धः सङ्गतिर्मता॥

मूलम्

तां प्रसङ्गः उपोद्घातः हेतुताऽवसारस्तथा।निर्वाहकैक्यं कार्यैक्यमिति षोढा विदुः परे॥

मूलम्

अपवाद उपोद्घातः प्रसङ्गः प्रत्युदाहृतिः।दृष्टान्ताक्षेपातिदेशा इति मीमांसकाः विदुः॥

मूलम्

पूर्वाधुकृतिसिद्धान्तन्यायं यत्रावलम्बते।उत्तराधिक्रियापूर्वपक्षस्तत्रापवादिकी॥

मूलम्

उपोद्घातः प्रस्तुतार्थस्योपपादकता मतः।चिन्तां प्रकृतसिद्ध्यर्थोमुपोद्घातं विदुर्बुधा॥

टीका

तन्त्र.[337]

मूलम्

उपोद्घातस्य चिन्तेयं यस्मान्निर्वाहिका स्थिता।तस्मात्तादर्थ्यचाश्चिन्तैवोपोद्घात इतीर्यते॥

मूलम्

स्मृतस्योक्तार्थसंबन्धादुपेक्षाया अनर्हता।प्रसङ्ग इति यत्प्राहुर्यस्मात्सैव हि सङ्गतिः॥

मूलम्

तस्मादुपोद्घातमुखसङ्गतिभ्यः पृथक्कृतः।या संगतिस्म प्रसङ्ग इति निष्कृष्टलक्षणम्॥

मूलम्

पूर्वाधिकृतिसिद्धान्तन्यायस्यविषयीक्रियाम्।आलम्ब्य पूर्वपक्षस्योत्थाने स्यात्प्रत्यपदाहृतिः॥

मूलम्

पूर्वाधिकृतिसिद्धान्तन्यायसाधर्म्यसंश्रयात्।उत्तराधिक्रियापूर्वपक्षे दृष्टांन्तसङ्गतिः॥

मूलम्

पूर्वाधिकृतिसिद्धान्तन्यायस्यानुपपन्नताम्।शङ्कित्वा पूर्वपक्षस्योत्थाने त्वाक्षेपसंगतिः॥

मूलम्

कृत्वा यत्राधिकाशङ्कां पूर्वमेवातिदिश्यते।संगतिः कथिता सद्भिः काचित्तत्रातिदेशिकी॥

मूलम्

इत्थं संगतयस्सप्त मीमांसाशास्त्रसम्मताः।तत्सामान्यं विशेषाश्च संग्रहेण निरूपिताः ॥