700 सामान्यविशेषादिः

मूलम्

सामान्यविधिरस्पष्टस्संह्रियेत विशेषतः।स्पष्टस्य तु विशेषेण नोपसंहार इष्यते॥

मूलम्

शब्दोपात्तविशेषेऽर्थे संकोचश्चेदसौ नयः।शब्दोपत्तविशेषान्यविषये यदि विश्रमः॥

मूलम्

गोबलीवर्दनीतिस्स्यात् वैयर्थ्यविनिवृत्तये।तथैवोत्सर्गापवादः विरोधविनिवृत्तये॥

मूलम्

तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन वा पुनः।देवतास्सङ्गतिस्तत्र दुर्बलं तु परंपरम्॥

मूलम्

इष्टा शीघ्रप्रवृत्तित्वाद्योगाद्रूढिर्बलीयसी।अश्वकर्णादिशब्देषु विपरीतं बलाबलम्॥

मूलम्

पदान्तरं प्रयुक्तं चेद्यौगिकार्थाविशेषकम्।रूढिशक्तेर्भजकं स्याद्यथा चाग्रसरोरुहम्॥

मूलम्

सर्वत्र यौगिकेश्शब्दैर्द्रव्यमेवाभिधीयते।न हि संबन्धवाचित्वं संभवत्यतिगौरवात्॥

मूलम्

सर्वाणयेव हि शास्त्राणि स्वप्रदेशान्तरैस्सह।एकवाक्यतया युक्तमुपदेशं प्रतन्वते॥

मूलम्

उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥