699 दृष्टार्थत्वादिः

मूलम्

दृष्टार्थत्वे संभवति नादृष्टार्थत्वमिष्यते।प्रयाजशेषप्रक्षेपः प्रतिपत्तिरतो मतो॥

मूलम्

वाजिनेऽप्यनुनिष्पन्नप्रतिपत्तिरितीष्यते।अतोऽध्ययनमन्त्रादे दृष्टार्थत्वव्यवस्थितिः॥

मूलम्

वचनेन विरोधे तु न हि न्यायः प्रवर्तते।घटं पटयितुं नेष्टेऽप्यागमानां सहस्त्रकम्॥

मूलम्

आनर्थक्यप्रतिहतौ विपरीतं बलाबलम्।रूपे श्रुतेऽपि दध्नेतिवाक्यं गुणविधिर्मतः॥

मूलम्

दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा।तदापि विपरीतत्वं शिष्टाकोपे यथोदितम्॥

मूलम्

अत्यन्तबलवन्तोऽपि पौरजानपदाजनाः।दुर्बलैरपि बाध्यन्ते प्रबलैः पार्थिवाश्रितैः॥

मूलम्

स्वरूपतः प्रकरणे स्थानाच्च बलवत्यपि।पूषानुमन्त्रेण लिङ्गसमाश्रितसमाख्या॥

मूलम्

बाध्यते हि प्रकरणमुपजीव्यविरोधतः।कल्प्योपकारापूर्वाङ्गात्प्राक्प्राकृतसमन्वयः॥

मूलम्

फलं तस्य च संबन्धः कल्प्यौ विश्वजिति क्रतौ । रात्रिसत्रेष्वार्थवादफलसंबन्धकल्पना ॥

मूलम्

प्रसक्तस्य प्रतीषेधे तदन्यत्राप्रसङ्गतः । संप्रत्ययश्शिष्यमाणे परिशेष इतीर्यते ॥